________________
३२४
उपजाति:
मालिनी
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
भवादृशां सूरिवरोत्तमानां,
प्रभाव - चारित्रविभूषितानाम् । समागमस्योत्तमलाभ आप्तो,
मेवाडभूपुण्यमहोदयाद्धि ॥७६७॥
अपीह मेवाडभुवि (महौ ) च सन्ति, जिनेशदेवायतनानि सन्ति ।
पुरातनानि त्रिसहस्त्रकाणि,
चिरन्तनोद्भूतकलाश्रितानि ॥ ७६८ ॥
भूयांसि तेषामतिजीर्णकानि,
जातानि देवायतनानि तानि ।
तदीयजीर्णोद्धरणं विधातु
१. सुन्दराणि ।
मावश्यकं वर्तत इत्थमत्र ॥७६९ ॥
पूज्यैर्भवद्भिर्जिनतत्त्वविज्ञैः,
प्राचीनदेवालयरक्षणार्थम् ।
श्री श्रावक श्रेष्ठिसमूह उच्च
रुद्बोधनं कर्तुमतोऽर्हणीयः ॥ ७७० ॥
उदयपुरनिवासिश्रावक श्रेष्ठिसंघै
रिति गदिततमां तां सत्कथामश्रृणोच्च । तदनु विजयनीतिः सूरिसूर्यस्तदानीं,
सकलजनहितार्थं ध्यातवान् कार्यजालम् ॥७७१ ॥