________________
३१२
राजनगरे विविध शासनप्रभावकप्रसंगाः । श्रीशासनौन्नत्यकराणि तत्र,
कार्याणि सर्वाणि तदोदभूवन् ॥७४३॥ तथा तदा सूरिवरोपदेशात्,
__ श्रीशामलापाटकसंघमुख्यैः । श्रीजैनधर्मोद्ध(न)तिकारिवर्या,
संस्थापिता जैनसुपाठशाला ॥७४४॥ तथैव ढालाभिधपूःसुवीथ्यां,
श्रेष्ठीश्वरश्चीमनलालनामा । श्रीधोलिदासाख्यधनीशपुत्र,
उद्यापनं सोत्सवमन्वतिष्ठत् ॥७४५॥ शार्दूलविक्रीडितम् - श्रीरूपासुरचंदवीथिवसतौ पूर्णां प्रसिद्धिं गतः, __ श्रीमच्चीमनलालनामधनिकः सुश्रावकैः सम्मतः । श्रेष्ठी श्रीमनसूरवरामतनुजो भ्राता तदीयस्तथा,
तौ श्रीसूरिवराङ्घ्रिपद्मसविधे सद्भावनाभावितौ ॥७४६॥ स्वीकर्तुं समजैनदर्शनमतं श्रीमच्चतुर्थं व्रतं,
कर्तुं पादसुपावितं निजगृहं संप्रार्थयेतां तदा । आचार्या अपि तद्गृहे शमपरास्तद्भावनाऽऽवर्जिताश्चातुर्मासनिवासपूर्तिजनकस्थानान्तरार्थं गताः ॥७४७॥
(युग्मम्) उपजातिः - महामहिम्नो विजयादिमश्री
नीतिमुनीशा (नीतिश्वरस्या) ज़िसरोजमाप्य ।