SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उभौ गृहस्थौ तनुपावनार्थं, तुर्यव्रतस्वीकृतिमातनिष्टाम् ॥७४८॥ अहम्मदावादपुराद् विहृत्य, ततो नरोडाख्यपुरे च तस्मात् । श्रीमड्डभोडादिपुरे च गत्वा, सूरीश्वराः सिष्यसमूहसार्धम् ॥७४९॥ श्रीमार्गशीर्षस्य सिते सुपक्षे, तिथौ दशम्यां शुभवासरे च । प्रांतीजनाम्नि( जसंज्ञे) सुपुरे वरेण्ये, समागताः क्षान्तिपरास्तदानीम् ॥७५०॥ (युग्मम्) शार्दूलविक्रीडितम् - श्रीप्रांतीजनिवासिसंघजनता सूरीश्वराणां तदा, प्रीत्या स्वागतमातनोत् सह महैर्वादित्र-गीतादिभिः । तस्मिन्नेव नृणां सदा सुखकरे श्रीमार्गशीर्षाभिधे, . शुक्लैकादशमी( ? )तिथौ वरदिने सल्लानकेसौम्यभे ॥७५१॥ श्रीप्रह्लादनपूःसुनामनगरीवास्तव्यसच्छ्रावकं, 'पानाचन्द्र' इतीड्यनामधनिनः पुत्रावतंसं सदा । डाह्याभाइशुभाभिधानविदितं वैराग्यरङ्गान्वितं, श्रीमन्नीतिमुनीश्वरा धृतिपरास्तच्छ्रेयसेऽदीक्षयन् ॥७५२॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy