________________
३१६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ज्येष्ठाख्ये शुभमासकं सितदले सत्यां नवम्यां तिथौ, बारेजाऽभिधरम्यधामनगरस्थश्रावकस्य स्वयम् । दीक्षादानकृतिः कृता मुनिवरैः सार्धं महैर्मङ्गलैः, कृत्वा नाम च तस्य रंगविजयेत्यात्मीयशिष्यं व्यधुः ॥७२९॥
(चतुर्भिः कलापकम्) बारेजाख्यपुराद् विहृत्य मुनिभिः सार्धं ततः सूरिराट्,
संख्यातीतजनान् जिनेशगदिते धर्मे मुदा स्थापयन् । भव्यौधान् प्रतिबोधयन् शमपरो भार्गे मतः सर्वतः,
श्रीमच्छ्रावकराजिराजनगरे श्रीनीतिसूरिर्गतः ॥७३०॥ उपजातिः - अहम्मदावादपुरस्य संधै
राह्लादिवादित्राविशालदृश्यम् । सूरीश्वराणां समहं सहर्ष,
सुस्वागतं भावयुतं व्यधायि ॥७३१॥ त्रि-नन्द-नन्दैकमिते च वर्षे (१९९३),
सूरिश्चतुर्मासविधि व्यधत्त । अहम्मदावादपुरे वरेण्ये,
उपाश्रये लोहकृतां हि वीथ्याम् ॥७३२॥ अहम्मदावादपुरे प्रथिष्टे,
चाऽन्यत्र भागेऽपि जिनेन्द्रवाचाम् । लाभार्थमत्रत्यनृणां समेषां,
संप्रेषयत् सूरिवरः स्वशिष्यान् ॥७३३॥