________________
बारेजानगरे दीक्षादानार्थ गमनम् ।
३१५ वसन्ततिलकावृत्तम् -
श्रीमद्दयाविजयनामदयाप्रपूर्ण,
__ श्रीसंघमान्यबहुबोधधरं मुनीन्द्रम् । 'पन्न्यास' इत्युरुपदेन सुभूषिताख्यं,
श्रीशान्तिपूर्वविजयाहूवमथोच्चशीलम् ॥७२४॥ उपजाति: - चतुर्मितैः साधुभिरत्र सार्धं,
तदा चतुर्मासविधिं विधातुम् । समादिशन् तौ मुनिवर्गमान्यौ,
श्रीपट्टनाख्ये नगरे मुनीशाः ॥७२५॥ (युग्मम् ) श्रीपट्टनाख्यान्नगराद् विहृत्य,
शिष्यैः प्रशिष्यैः सह सूरिसूर्याः । अहम्मदावादपुराय गन्तुं,
यावत् कियन्मार्गमयांश्च तावत् ॥७२६॥ शार्दूलविक्रीडितम् - बारेजापुरवासिसद्गृहपतेश्चैकस्य तद्ग्रामके, आचार्याद् विजयादिनीतिमुनिपात् सूरिश्वरोत्तंसकात् । उद्भूता शुभभावना जिनपतेर्दीक्षा ग्रहीतुं तदा, तस्माच्छ्रीगुरुराजपादसविधे तद्भातृवर्गोऽगमत् ॥७२७॥ गत्वा सूरिवरांहिवारिजमिमे नत्वा महामोदतः, बारेजाख्यपुरं मुनीशचरणैः पूतं विधातुं तदा । याञ्चानम्रतया व्यधुश्च सकलास्ते श्रावका आग्रहं, बारेजाह्वपुरं गता मुनिवराः स्वीकृत्य तत्प्रार्थनाम् ॥७२८॥