SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तथैव जातोऽत्र सुसाम्यभावो, - जनेषु सर्वत्र च भ्रातृभावः । देदीप्यमाना समुदाहृतिः सा, समस्ति' नीति( ? )मुनिराट्कृतैषा ॥७१९॥ (युग्मम्) ततश्चतुर्मासविधि विधातु महम्मदावादपुरस्य संधैः । अभ्यर्थितः सूरिवरस्तदानीं, सद्भावयुक्साग्रहप्रार्थनाभिः ॥७२०॥ ज्ञात्वा तदीयां शुभभावपूर्णा मभ्यर्थनां सूरिवरास्तदानीम् । विहर्तुमैच्छन् पुरपट्टनाद्धि, अहम्मदावादपुरं प्रयातुम् ॥७२१॥ ज्ञात्वा च तत् पट्टनवासिसंधैः, सूरिश्चतुर्मासविधानकृत्यै । अभ्यर्थितस्तद्वरदेशनाभिः, कृष्टैः सुबोधाऽमृतवर्षिणीभिः ॥७२२॥ स्वीकृत्य सूरिः पुरसंघयाञ्चां, ततो ह्युपाध्यायपदाधिरूढम् । चारित्रवित्तं सरलस्वभावं, समादिशत् साधुसमूहमान्यम् ॥७२३॥ १. 'समस्ति सूरीश्वरसत्कृतैषा' इति पाठः साधुः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy