________________
३११
पट्टने आगत्य संघक्लेशो नाशितः । सम्मेलनं शान्तिमयं विधातुं,
तत्संघविज्ञापनमन्वमंस्त ॥७०४॥ ततोऽनु तस्मान्नगराद् विहृत्य,
समागमत् पट्टननामपुर्याम् । सदा सतां नीतिपथे प्रवृत्तिं,
विधापयनीतिमुनीश्वरोऽसौ ॥७०५॥ वसन्ततिलका - तत्रैव पट्टनपुरे विजयादिनीति
सूरीश्वरः सदुपदेशकृते जनानाम् । माध्यस्थ्यवृत्तिमवलम्ब्य पुरस्य संघे,
व्याख्यानमारभत भव्यहितैककामः ॥७०६॥ उपजातिः - आचार्यवर्यस्य महाप्रभावि
व्याख्यानशैलेः सुभगाकृतेहि । पुण्यानुभावाच्च पुरस्य लोकाः,
सर्वे समासन् गतवैरभावाः ॥७०७॥ द्रुतविलंबितम् - विजयनीतिमुनीश्वरसद्गुरोः,
समसशान्तिमयादुपदेशतः । उभयपट्टनजैनविभागिषु,
समभवद् महदैक्यकरं मतम् ॥७०८॥