________________
३१०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् एतस्मिन् समये च पट्टनपुरे श्रीश्रावकश्रेणिषु, .
द्वौ पक्षौ प्रविरोधतः स्वतितरां जातौ हि मिथ्याग्रहात् । एकः श्रीयुवसंघ आत्ममतपोऽन्यो जैन-सोसायटिः,
संघक्लेशकरौ समाऽसुखकरौ वृद्धि गतौ सर्वदा ॥६९९॥ सोऽयं पट्टनवासिजैनजनतासंक्लेशदावानलो,
योऽन्योऽन्यप्रविरोधकार्यकरणैर्जाज्वल्यमानः सदा । विद्वेषो विषसन्निभोऽथ तकयोस्तावत् प्रवृद्धि गतः,
सप्ताष्टाधिकवर्षतोऽन्यपरयोर्भोज्यादिकृन्नाऽभवत् ॥७००॥ उपजाति: - इत्थं विरोधे परिवर्धमाने,
संघस्य पक्षद्वयके तदानीम् । कन्यादिदानं व्यवहारकार्य,
अन्योऽन्ययोर्नाऽभवदेव कुत्र ॥७०१॥ एतादृशक्लेशविनाशनार्थं,
श्रीपट्टनाख्यस्य पुरान्तरस्य । सत्क्षेत्रयुक्खेतरवासनाम्नः,
___ सत्पाटकस्योभयपक्षमुख्याः ॥७०२॥ श्रीशासनोद्धारकसूरिवर्य,
सत्पट्टनाह्वस्वपुराय नेतुम् । न्यवेदयन् साग्रहभावपूर्ण,
श्रीसंघसंक्लेशविनाशनार्थम् ॥७०३॥ श्रीजैनसंघेषु तदा वदान्यः,
श्रीनीतिसूरीश्वरसूरिवर्यः ।