SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ शंखेश्वरतीर्थ आगमनम् । विधाय दीक्षां नवदीक्षितस्य, उपजाति: द्रुतविलम्बितम् - शिष्यं व्यधात् श्रीसुमतीतिमुख्य श्रीहिम्मताढ्यं विजयान्तनाम (संज्ञं ) । पदान्वितानां विजयान्तनाम्नाम् ॥६९४॥ अपि च सूर्यपुराभिजनं जनं, परमनन्यजिनेश्वरसेवकम् । - विजयनीतिमुनीश्वरधर्मकृद्, महति तद्दिवसे समदीक्षयत् ॥६९५॥ नाम्ना च तं श्रीभगवानदासं, सूरीश्वरोऽसौ खलु दीक्षयित्वा । श्रीभूषणाग्र्यं वियजान्तरम्यं, नाम व्यधात् तन्नवदीक्षितस्य ॥ ६९६ ॥ कृत्वा विहारं नगरादमुष्मात्, श्रीराधनादेः पुरतस्तदानीम् । शङ्खेश्वरं तीर्थवरं गतास्ते, श्रीपार्श्वनाथाऽङिङ्घ्रविवन्दनार्थम् ॥६९७॥ शार्दूलविक्रीडितम् - श्रीशङ्खेश्वरपार्श्वतीर्थवरत: काले तदा सूरय श्चाणस्मापुरवासिजैनजनतासद्भावयाञ्चावशाः । ३०९ स्वीयैः शिष्यवरैः प्रशिष्यमुनिभिः कृत्वा विहारं शुभं, चाणस्मापुरमागताः शमपरा भव्यौघबोधेच्छ्या ॥ ६९८ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy