________________
३१२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - आचार्यवर्यस्य निरन्तराच्च,
सार्धद्विमासाऽवधिकोपदेशात् । बाबूपनाम्नो ह्यमिचन्द्रपुत्र
श्रीमज्जुषो दोलतचन्द्रनाम्नः ॥७०९॥ लहेरचन्द्राख्यधनीशपुत्र
श्रीभोगिलालेतियथार्थनाम्नः । इत्यादिसच्छ्रावकनायकानां,
नष्टो विरोधः सततप्रयासात् ॥७१०॥ (युग्मम्) वंशस्थवृत्तम् - जातं च पक्षद्वयके प्रमेलनं,
गतं विषं वैरविभाववर्धनम् । मुनीशवाचामृतवर्षणेऽभवत्,
पुरस्य संघे परितापशोषणम् ॥७११॥ उपजातिः - श्रीपट्टनाख्यस्य पुरोत्तमस्य ।
श्रीमत्कनासाऽभिधपाटकस्य । लहेरचन्द्राह्वधनीशपुत्र
श्रीभोगिलालाख्यधनीश्वरेण ॥७१२॥ कृता यथार्था नवकारशीति,
श्रीसंघभोज्यादिकृतौ प्रसिद्धा । अभुञ्जताऽथोभयपक्षजैनाः,
सहोपविश्यैव तदा सहर्षम् ॥७१३॥ (युग्मम्)