________________
१४
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
यतो जगत्यां महतां प्रतिज्ञा, कदापि वैफल्यमुपैति नैव । गीर्वाण-सम्भाषितवच्च सत्या, वर्वर्ति कालत्रितयेऽपि नूनम् ॥९२॥ समारभन्ते यत ईदृशं ते, महाजना: प्रौढधियः सुकृत्यम् । प्रागेव सर्वं स्वधिया विमृश्य, विशालचित्ते श्रुत-पारयाताः ॥९३॥ मालिनी
-
चलति जगति सेना निर्जिताऽनेकवीरा, परिचलति कदाचिद्रत्नसानुश्च लोके । उदयति दिशि भानुः पश्चिमायां तथापि विचलति न हि वाणी सद्भिरुक्ता कथञ्चित् ॥९४॥
वसन्ततिलका
तद्राजकोटनगरीय - महोग्रशक्तिकैजन्सितामुपगतस्य हि बालसूनोः । लोक - प्रभूत-यशसो गुणवद्वकीललक्ष्म्यादिचन्द्र- शुभनाम-धरस्य तस्य ॥ ९५ ॥
तन्मातुलस्य जनताऽतिग- सन्महिम्ना, न क्वाऽपि कोऽपि मुनिपुङ्गव एतकस्य । संवेगिनोऽधिकतराऽऽतुरतामितस्य, दीक्षां प्रदातुमशकद्भृशमर्थितोऽपि ॥ ९६ ॥ ( युग्मम् )
पित्रादि- सम्पतिमृते न हि केऽपि तर्हि, कञ्चापि योग्य - मनुजं सुधियं मुमुक्षुम् । प्राविव्रजन्नखिल - लक्षण - लक्षिताङ्गं, श्रीवीर - शासन - रता ध्रुवमेव मौनाः ॥९७॥