________________
नीहालचन्द्रेण गुप्तरित्या गृहीता भागवती दीक्षा । इन्द्रवज्रालात्वाऽपि चारित्रमवश्यमेव, जित्वा च सार्धं मनसेन्द्रियाणि । कुर्वन्त आसन् बहुधा तपस्या, आत्मानमुद्धर्तुमशेषदुःखात् ॥१८॥ चारित्रमादातुमतुच्छबुद्धि-श्चरित्रनेताऽपि दृढीकृताऽऽत्मा ।। केनाऽपि सुश्रावक-सज्जनेन, चचाल दाहोदपुरं प्रतीतः ॥१९॥ तत्राऽऽगतश्चैत्यमुपेत्य भव्यं, जिनेन्द्र-पूजां परया च भक्त्या । विधाय तस्मादपि तूर्णमेष, “महेरवाडा" पुरदिश्य चालीत् ॥१००॥ मार्गे किलैकाऽऽम्रतरोरधस्ता-दुत्तार्य वस्त्राऽऽभरणादिसर्वम् । स्वपाणिना नन्द-समुद्र-रन्ध्र भूमानवर्षे (१९४९) शुचि
शुक्लपक्षे ॥१०१॥ वैश्वे तिथौ चन्द्रदिने सहर्ष, विलुच्य केशान् मुनिवेषमेषः । . आधाय सांसारिक-वस्त्रजातं, नीहालचन्द्राय ददौ स तस्मै ॥१०२॥
युग्मम् श्रामण्यवेषी तत आजगाम, महेरवाडानगरं विशालम् । चक्रे चतुर्मास-निवासमत्र, सुखेन निःसङ्गमनाः स धीरः ॥१०३॥ तत्रत्य-सुश्रावक-सद्गृहस्था, एनं स्वहस्ताऽर्पित-साधुवेषम् । नोशन्ति तं वासयितुं स्वपुर्यां, विनिर्जिताऽशेष-कषायमेकम् ॥१०४॥ परन्तु तत्रत्य-सुधीः सुधर्मा, तत्पौरमुख्यः समुपेत्य भक्त्या । प्रणम्य नैजे सदने निवस्तु-मागृह्य भूयस्तमयाचतैनम् ॥१०५॥ वैधर्मिकस्यैव-मुदीक्ष्य तस्य, धर्माऽनुरागं विनयं च यहि । तर्खेव जैना मुदिता गृहस्थाः, सूपाश्रये तं समतिष्ठिपन्त ॥१०६॥ भक्त्या चतुर्मासमवासयन्त, तं पाणिनीयं विदुषा वरेण । अध्यापिपन् भूरिधन-व्ययेन, तद्बुद्धि-साध्वाचरण-प्रसन्नाः ॥१०७॥