________________
१३
सूरीश्वराणामन्तिके दीक्षाग्रहणार्थं गुप्तगमनम् । मालिनी - स्रजमिव निज-मूओ सर्वदापूज्यकाना
मवहदधिक-भक्त्याऽऽदेशनं मोदमानः । कथमपि तदवज्ञां जातुचिन्नैव कुर्व
ननवरत-तदाज्ञा-वर्तमानः स आसीत् ॥८६॥ शार्दूलविक्रीडितम् - चारित्र-ग्रहणे तु लातुमसको ताताऽऽदिकानां वचः, काठिन्ये न्यपतत् तथापि विजय-श्रीसिद्धिसूरीश्वरम् । जैनाचार्यमनेक-शास्त्र-निपुणं दीक्षां ययाचे भृशं, भक्त्या सर्व-भयाऽपहां सुभविनां पापौघ-भूध्राऽशनिम् ॥८७॥ सोऽप्याचष्ट महामते ! त्वमधुना संवर्तसे शैशवे, पित्रादेर्वचसा विना तव मया दातुं न सा शक्यते । तस्माद्गच्छ तदीय-सम्मतिदलं लात्वाऽरमैतासि चेद्, तर्खेतत्सकलं विचार्य भवतो दास्यामि दीक्षामहम् ॥८८॥ इत्याकर्ण्य दुरापमुत्तरमसौ सूरीन्द्र-पद्माऽऽननात्, सर्वस्वेऽपहृते धनी जन इव क्लेशीभवन् भूरिशः । किं कुर्यामधुनैतदर्थमचिरं कार्यं कथं सेत्स्यति ? वारं वारमिति प्रधीरतितरां तत्सिद्धयेऽचिन्तयत् ॥८९॥ इन्द्रवंशा - गन्तास्मि गेहं तदपि ध्रुवं नो, दास्यन्त्यनुज्ञां जनकाऽऽदयो मे । चारित्रमादातुमहं पुनर्वा, नैवाऽऽगमिष्यामि ततः कदापि ॥१०॥ इत्थं मनोवाञ्छितकार्यसिद्धयै, विचार-वार्थी पतितस्य तस्य । क्रमेण चित्ते द्रढिमानमापत्, सुनिश्चिता संयमसञ्जिघृक्षा ॥११॥