________________
१२
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
यावन्न कैवल्यमियति जीवः, कर्माणि सर्वाण्यवधूय विद्वान् । तावन्निपातो भवसागरेऽस्मिञ्जीवस्य नूनं भवतीति वित्त ॥७७॥
"
अत्यद्भुतं रूपमुदीक्ष्य दीपे यथा पतित्वा म्रियते पतङ्गः । तथैव कान्ता - सुख - लिप्सया हि, विनाशमायात्यतिमूढजीवः ॥ ७८ ॥
मृत्वा पुनर्यो न हि लाति जन्म, तस्यैव मृत्युर्जगति प्रशस्तः । जातो न को वा म्रियते जगत्यां,
मृतश्च को ना न हि जायतेऽस्मिन् ॥७९॥ यावच्च देहे पटुतेन्द्रियाणां, कालो न वा यावदुपस्थितोऽस्ति । तावच्छ्विश्री - प्रतिपत्तयेऽत्र, धर्मो विशुद्धः परिषेवणीयः ॥८०॥
चरित्रनेता परिपूत - चेता, विलुप्तकल्पायित - मोह-माय: । विहाय संसार - सुखं समग्रं बालोऽपि चारित्र - जिघृक्षुरासीत् ॥८१॥
?
परन्तु स श्रीमति तुङ्गवंशे, जन्माऽऽप्य पित्रादि-कुटुम्ब - वर्गे । सर्वर्द्धिमत्त्वेऽपि यदिच्छतीह, चारित्रलानं तदतीव चित्रम् ॥८२॥ सञ्जायमानेदृश- किंवदन्ती - भीत्या न चाऽऽख्यन्निज - मानसीयम् । उच्चैर्विचारं प्रियमित्रवर्ग-मप्येष गम्भीरमतिः कदापि ॥८३॥
मनो हि यस्येदृश - धीर - पुंसों, वैराग्यमायाति निसर्गतश्च । संसारलीला विषवद्विभाति, तदीय- संशुद्ध - विरक्त - चित्ते ॥८४॥ वैराग्यवार्ता वनिताऽनुरागि- यूनामिवाऽयं गृह- सन्निवासः । दुःखाय शश्वद्भवतीह नूनं, निवृत्त-मार्गाऽऽश्रित- मानसानाम् ॥८५॥