________________
नीहालचन्द्रस्य वैराग्यम् ।
११
स्वधर्मनिष्ठा जनकादयोऽपि, संसार - निस्तार- पथाऽधिरूढम् । मत्वा तमेवं शुभकृत्यरक्ता, विवेकिमुख्याः शुशुचुर्न किञ्चित् ॥७०॥ नाऽयं गृहे स्थास्यति कोटिशो ऽपि, कृतैः प्रयत्नैरधुना मया हि ।
इन्द्रवज्रा
अतस्तदीयेदृश-धर्म-कार्ये,
नैवाऽन्तरायं विदधीत कोऽपि ॥ ७१ ॥
इत्थं तदीयाऽखिल-बन्धुवर्गा
निश्चित्य चित्तेषु तदर्थमोहम् । औज्झन् प्रसेदुश्च विलोक्य तस्य,
मोक्षार्थितां हार्दिक - दाढभाजः ॥७२॥
सांसारिकाऽनेक- सखीनजस्त्रं,
चक्षाण आसीदतिधर्मनिष्ठान् । मित्राणि ! मानुष्यमिदं दुरापं,
लब्धुं न शक्यं मुहुरेतकस्मिन् ॥७३॥
लब्ध्वा कथञ्चिद्बहु- पुण्ययोगाच्चिन्तामणिप्रायमवश्यमेतत् ।
यतेत धीमानमृताय तूर्णं,
मुधैव नो चेदिदमत्र याति ॥७४॥
यथा दिनेशः समुदेति कल्पे, यात्यस्तमप्येष दिनाऽवसाने । संसार-चक्रे भ्रमतश्च जन्तो- रुत्पत्ति - नाशौ भवतस्तथैव ॥७५॥ यद्गर्भवासे जनने च मृत्यौ, जाजायते दुःखमसह्यमेषाम् । दृष्ट्वाऽन्यदीयं तदवश्यमेव, सौवस्य तस्याऽनुमितिं विधत्ताम् ॥७६॥