________________
१०
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
इतश्च पुत्रं तमवीक्षमाणा, निर्विण्ण-चित्ता जनकाऽऽदिवर्गाः । समाययुस्तत्र गवेषयन्तः, प्रदर्शयन्तः सुतमोहमुग्रम् ॥६३॥
आलोक्य पुत्रं बहु मोदमाना, आगृह्य सम्यक् प्रतिबोध्य सर्वे । आनिन्यिरे सादरमालयं तं भूयोऽपि गेहान्निरगाद्विरागी ॥ ६४ ॥
?
इत्थं कियद्वारमसौ न्यरोधि, गृहं समानीय कुटुम्बवर्गैः । तथापि लब्ध्वाऽवसरं सुगुप्तः, स राजकोटं नगरं ह्यगच्छत् ॥६५॥
स्रग्धरा
तत्रैजन्सीवकीलो वदितुमतिपटुर्मातुलो यस्तदीयो, लक्ष्मीचन्द्राऽभिधेयः सकल- परिजनैः प्रेषितो नीतिविद्वान् । आगत्याऽनेकयुक्त्वा शम-दमन-भिदा दर्शयन् प्रत्यबोधि, नैच्छत्स्थातुं गृहेऽसौ दृढतरमतिकः सन्तरीतुं भवाब्धिम् ॥६६॥ शार्दूलविक्रीडितम्
येषां चेतसि वर्ततेऽचलतरा वैराग्यलक्ष्मीः परा,
तृष्णा मानस - सद्मनो विषधरी निष्काशिता यैर्बलात् । संसारीय- समस्त - सौख्यमनिशं जानन्ति तुच्छं परं, धन्यास्ते जगदर्चनीय - चरणास्तिष्ठन्ति गेहे कथम् ? ॥६७॥ स्थेमानं मनसो विलोक्य सुधियो बाल्येऽपि तस्येदृशं, धर्मे जन्म- जरा - विपत्ति-मरण-क्लेशौध-विच्छेदके । चित्ताऽऽह्लादमुपागतः स हि ततो यातः पुरीमात्मनः, पश्चात्सोऽपि पुरीजनैरविदितः प्रापत् पुनर्गुर्जरम् ॥६८॥ उपेन्द्रवज्रा
-
यथा न मां केऽपि जनाः स्वकीया, जानीयुरित्थं मनसाऽवधार्य । तथा स्थितो धार्मिक - जैनशास्त्राऽभ्यासं विधातुं ह्यलगत्सयत्नः ॥६९॥