________________
नीहालचन्द्रस्य देव - गुरु- धर्मसेवा ।
वसन्ततिलका
इन्द्रवज्रा
-
संसार - जालपतिता अतिमूढ - जीवाः, पारापता इव सदाऽनुभवन्ति दुःखम् । येsपि स्वकीय-धन- पुत्र - कलत्र - भृत्या
तेऽपि ध्रुवं न हि भवन्ति कदापि नैजाः ॥५६॥ यद्यौवनं भवति सौख्यददं जनानां,
नित्यं न चाऽस्ति तदपि स्फुट - विद्युदाभम् । पुष्णाति यां तनुमशेषजनः सुखाय,
साऽप्येकदा परिजनैरिह दह्यते वै ॥५७॥
मोमुह्यते कथममुत्र विवेकि-जीवो,
येनाऽऽशु नाशमुपयाति विवेक - रत्नम् । तस्मादमुं परिविहाय सुधीमता हि,
निःश्रेयसाय यतितव्यमवश्यमाशु ॥ ५८ ॥
९
?
संसार-कारागृह-संनिवासाद्, मुक्तिः कथं मे भवितेति चित्ते । कुर्वन् विमर्श बहुधा तदन्ते, चारित्रलान स हि निश्चिकाय ॥५९॥ परं किलैतन्नहि पारयेऽह - मत्र स्थितः सम्प्रति बन्धुमध्ये | विचिन्त्य चैवं हृदि गुप्तरीत्या ययौ ततो गुर्जरदेशमेकः ॥ ६० ॥ स शैशवस्थोऽपि विशेषशास्त्राऽभ्यासी विरक्तोऽधिकधर्मरक्तः । सर्वत्र लोकैरतिसत्कृतोऽभूद्, नीहालचन्द्रः प्रतिभाविशिष्टः ॥६१॥ वात्सल्यतः सज्जन-सद्गृहस्था - स्तत्राऽपि शास्त्राऽधिकशिक्षणाय । सर्वप्रबन्धं व्यदधुः सयत्ना, एकत्र मुख्ये नगरे विशाले ॥६२॥