________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् इत्थं विमृश्यैष चरित्रनायको,
दुष्प्राप-मानुष्य-जनुश्च सार्थकम् । सौवं निनीषुः करुणाऽऽर्द्र-मानसः,
आसीत् सयत्नः सुगुरूपलब्धये ॥४७॥ ततः प्रभृत्या नियमेन शश्व-दित्वा च चैत्यं जिनदृग् बभूव । गुरोः सतः पार्श्वमुपेत्य योगे, तद्वाक्य-पीयूषमलं पपौ सः ॥४८॥ भवादमुष्मादतिगाढपङ्का-दात्मानमुद्धर्तुमना मनीषी । प्रतिक्रमान् पञ्च कियन्ति सूत्रा-ण्यावश्यकान्येष पपाठ सम्यक् ॥४९॥ यथा फलानीह वटस्य लोके, पितुः समानास्तनुजास्तथैव । एतां जनोक्तिं चरितार्थयन् हि, पितेव जातोऽखिल-सद्गुणोऽयम् ॥५०॥ धर्माऽनुरागाऽधिकरक्त आसीत्, संस्कार उग्रः पितुरस्य यादृक् । चरित्रनाथीय-विशुद्ध-चित्ते, समक्रमीत्सव विशेष एषः ॥५१॥ श्रीफूलचन्द्रो जनको ह्यमुष्य, सन्ध्याद्वयाऽऽवश्यक-धर्मकृत्यम् । कृत्वैव चैवं जिनमूर्तिपूजां, नित्यं ववल्भे निरवद्यकर्मा ॥५२॥ चरित्रनेताऽपि महोग्रबुद्धिः, सत्रा च पित्रा प्रतिघस्रमेषः । द्वैकालिकाऽऽवश्यक-सर्व-धर्म-कृत्यं विधातुं नियमेन लग्नः ॥५३॥ भवाऽन्तराऽऽराधित-शुद्ध-धर्म-संस्कारयोगाञ्जननेऽप्यमुष्मिन् । चान्द्री कलेवोज्ज्वलधर्म-दाढयमवधीत् प्रत्यहमेतकस्य ॥५४॥ मालिनी - प्रतिसमय-मनेकाऽऽयात-विद्वद्गुरूणां,
क्रम-कमल-सुसेवा-तद्विशुद्धोपदेशैः । श्रुतिपथमुपनीतैः पूर्ण-वैराग्य-सम्पद्,
भवितुमलगदेतच्चाऽन्तरात्मा विमोहः ॥५५॥