________________
वैराग्यावर्जितहृदयनीहालचन्द्रस्य पठन चातुर्यम् । इन्द्रवज्रा - प्रातः समुत्थाय विधाय नित्य-मावश्यकं तानवकृत्यमाशु । सर्वेभ्य आदौ विनयी स शाला-मागच्छदत्यन्त-गुरुप्रसादी ॥३८॥ स्तोकेन कालेन हि गुर्जरीय-षट् पुस्तकान्येष समध्यगीष्ट । चत्वारि चाऽप्याङ्गलपुस्तकानि, जहौ तदभ्यासमतुच्छबुद्धिः ॥३९॥ स शैशवे द्वादशवर्षमात्रः, शिक्षामशेषां व्यवहारकीयाम् । अह्नाय सम्प्राप्य बुभूषुरासी-दादर्शभूतो महतामपीह ॥४०॥ तदर्थमेतञ्जनकं समूचे, प्रधानशिक्षाप्रद आग्रहेण । महेभ्य ! सम्प्रत्यमुमुग्रबुद्धि, नीहालचन्द्रं परिपाठय त्वम् ॥४१॥ असाववश्यं भविता महीयान्, त्वदन्वयाऽऽकाश-गभस्तिहस्तः । समस्त-धीमज्जन-पित्तपद्मा-ऽऽकरप्रकाशी जगदद्वितीयः ॥४२॥ वंशस्थवृत्तम् - यदस्य बुद्धिःप्रतिभात्यलौकिकी सुरेश्वराऽऽचार्यधियोऽपि जित्वरी। समागताऽशेषविशेष-वादकृत् प्रमत्त-मातङ्ग-मदाऽपहारिणी ॥४३॥ नीहालचन्द्रस्य मनस्तु काम-मत्यन्त-वैराग्यमयं यतोऽभूत् । अतः स ऐच्छद्गुरुराजपार्श्वे, सद्धर्मशिक्षा परमार्थदात्रीम् ॥४४॥ कालेऽधुना या व्यवहारशिक्षा, सत्रा तया धार्मिक-शुद्धशिक्षा । नो दीयते मुख्यतया शिशूना-मतोऽस्ति धर्मे दृढता न तेषाम् ॥४५॥ इन्द्रवंशा - आत्मानमप्याशु न धर्म-संस्कृते
रादर्शभूतं परिकर्तुमीशते । भ्रश्यन्ति नूनं निज-धर्म-सत्क्रियाऽ
नुष्ठानतस्ते शिशवश्च सर्वथा ॥४६॥