________________
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
शतद्वयी चाऽऽर्हत- सज्जनानां सम्यक्त्वभाजां वरिवर्त्यमुष्याम् । सत्कीर्ति-लक्ष्मी-गुरुदेव-भक्ति- श्रिताऽऽत्मनां दुष्कृतवर्जितानाम् ॥३१॥
वसन्ततिलका
-
1
प्राग्जन्म - भूरि-समुपार्जित - पुण्ययोगादेवाऽत्र जन्मनि नरः समुपैति नूनम् ।
दीर्घाऽऽयु-रुच्चकुलजत्व - सुबुद्धिकत्वं,
सर्वेन्द्रियाऽतिपटुतां भवरोगहृत्त्वम् ॥३२॥
यद्भासतेऽधिकसमुन्नत- वंशजन्म,
I
तत्राऽप्यहिंसनमयाऽतुल- जैनधर्मः । मोक्षार्थिताऽऽत्मवशिताऽऽदिकमत्र पुण्यपुञ्जं विना भवति नुर्दुरवापमेव ॥३३॥
उपेन्द्रवज्रा
चरित्रनेत्रा सुधियाऽमुनाऽपि दुरापमप्येतदवापि सर्वम् । तेनाऽनुमाम्यस्य भवान्तरीय-सम्पादिताऽमेय - सुपुण्यराशिम् ॥३४॥ आसन्नमुष्याऽधिक-धर्मनिष्ठाः, श्रीभायचन्द्रो जशराजनामा । माणिक्यचन्द्रश्च सहोदरास्ते, ज्यायांस आसीद्भगिनीद्वयञ्च ॥ ३५ ॥
बालोऽपि गम्भीर - सुतीक्ष्णबुद्धि-वयस्यवर्णैः सह नाऽत्यरंस्त । नैवाऽप्रियं जात्वपि सम्बभाषे, प्रीणञ्जनानात्म-वचः सुधाभिः ॥ ३६ ॥
वसन्ततिलका
तन्मण्डलीय - शिशु-शिक्षण-राज-विद्याशालामसावविशदच्छ- कुशाग्रबुद्धिः ।
षष्ठीं समामधिगतश्चतुरः सुवक्ता, मेधाविषूत्तमतमोऽभ्यसितुं प्रलग्नः ॥३७॥