________________
श्रीविजयनीतिसूरीश्वराणां जन्म । मन्दाक्रान्ता - तस्यां पुर्यां वसति वरधीः सत्कृतः सर्वलोकैः,
अर्हद्धर्मा परमचतुरो लौकिकाऽशेषकृत्ये । लक्ष्म्या श्लिष्टः परमकरुणावान् महेभ्यः कृतज्ञः,
शुद्धे धर्मे जिननिगदिते रागवान् फूलचन्द्रः ॥२४॥ उपेन्द्रवज्रा - दशाऽऽदिकश्रीयुतमालिवंश-नभोदिनेशः शशभृत्सुकान्तः । सत्कीर्तिशाली गुरुदेवसेवी, दुर्नीति-वृक्षव्रजभित्कुठारः ॥२५॥ तद्धर्मपत्नी सुगुणा सुरूपा, सतीप्रकाण्डा गृहकृत्य-दक्षा । पटीयसी सर्वकलासु धीरा, चोथीति नाम्ना प्रथिता समासीत् ॥२६॥ व्योमाऽग्निनन्देन्दुमिते शुभाऽब्दे, मासे 'सहस्ये धवले च पक्षे । वैश्वे तिथौ सत्त्वगुणप्रधानः, समस्त-सल्लक्षण-लक्षिताऽङ्ग ॥२७॥ तुङ्गस्थिताऽनेकखहे सुलग्ने, तयोर्द्वयोः सूनुवरः प्रजज्ञे । जाते च पुत्रे हृदि सम्प्रहृष्टः, श्रेष्ठी प्रचक्रे जननोत्सवं हि ॥२८॥ शार्दूलविक्रीडितम् - षष्ठीजागरवासरे च विधिना सञ्जागराऽऽदिक्रियां, कृत्वा द्वादशवासरे च महता चारूत्सवेन प्रधीः । नीहालोत्तरचन्द्र इत्यभिधया प्रासेधयञ्जातकं, जातीयाऽखिल-भोजनं बहुविधं प्रायच्छदिभ्येश्वरः ॥२९॥ उपेन्द्रवज्रा - पुरे च तस्मिन्नधुना वियल्लिट्, चैत्यद्वयी भव्यतरा चकास्ति । उभे विशाले रमणीयधर्म-शाले चकास्तः सकलओसौख्ये ॥३०॥ १. १९३० । २. पौषमासि । ३. एकादश्याम् ।