SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् द्वि-नन्द-नन्दैकमिते सुवत्सरे (१९९२), तदा चतुर्मासमिमे मुनीश्वराः । प्रवर्तयन्तोऽत्र जनान् जिनागमे, महैरनेकैर्व्यदधन् तपः पराः ॥६७८॥ मालिनी - अथ स(च) भविकभव्ये राधनाख्ये पुरेऽस्मिन्, ___ मुनिवरविजयादेर्नीतिसूरीश्वरेण । सकलपुरनिवासिश्रावक-श्राविकाणां, तनुजतनुजुषाणां तत्त्वसंस्कारणार्थम् ॥६७९॥ जलधि-वसु-नवैके वैक्रमार्के सुवर्षे (१९८४), जगति विदितनामश्रीमशालीयवंश्यम् । जिनरतजमनादेालनाम्नः सुपुत्रं, धनिकगणवरिष्ठं बापुलालं सुबोध्य ॥६८०॥ जिनपतिगदितेड्यं धर्मसंबोधनार्थं, पठनकरणरम्या कारिता पाठशाला । अलभत जनताया बालिका-बालकौधः, प्रतिदिनमनुधर्मं ज्ञानलाभं च यस्याम् ॥६८१॥ (त्रिभिर्विशेषकम्) युगल-निधि-नवैके वैक्रमीये शुभेऽब्दे (१९९२), प्रगतिकृतिपरायाः पाठशालावरायाः । भवनमतिसुभव्यं नूतनं सोऽप्यकार्षी ज्जिनकृतमतवृद्धयै बापुलालो वदान्यः ॥६८२॥ उपजाति: - उद्घाटनं तद्भवनस्य पूर्वं, व्यधापयत् श्रीयुतबापुलालः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy