________________
३०७
राधनपूरे नवीना पाठशाला संस्थापिता । श्रीसूरिवर्योत्तमहस्तपझै
गुरूत्तमाशीर्वचनैश्च सार्धम् ॥६८३॥ श्रीपाठशालाभवनाऽभिधानं,
__पन्यासइत्युच्चपदान्वितेन । रत्नादिमश्रीविजयान्तनाम्ना,
सूरीशवर्याः समयोजयंश्च ॥६८४॥ तथैव पूजां जिनपुङ्गवस्य,
श्रीपाठशालाभवने नवीने । अबीभणच्छेष्ठिवरः सहर्ष,
स्वधर्मसद्भावविवर्धनार्थम् ॥३८५॥ अथो च तस्मिन् दिवसे सुभव्ये,
श्रीपाठशालाध्ययनार्थकानाम् । श्रीसंघसद्बालक-बालिकाना
___माचार्यवर्यो व्यदधत् परीक्षाम् ॥६८६॥ रथोद्धता - पारितोषिकविधिं व्यधापयत्,
सूरिवर्यवरहस्तपङ्कजैः । बालिकागण-सुबालतुष्टये,
धार्मिकाध्ययनकार्यवृद्धये ॥६८७॥ उपजाति: - तथैव सूरीश्वरभव्यभक्तः,
पुण्याकृतिः पूनमचन्द्रपुत्रः । श्रीवाडिलालाब उदारचेताः, -------
श्रीसंघसद्भक्तिसुसेवनार्थम् ॥६८८॥