________________
३००
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
एवं क्रमेणोत्तमसूरिराजा:,
सर्वत्र भव्यान् प्रतिबोधयन्तः ।
वर्धापनाकार्यविवर्धमानाः,
श्रीस्थान दुर्गाख्यपुरं प्रयाताः ॥६४८ ॥
ततोऽनु मूलीतिशुभाभिधानं,
ग्रामं विहृत्यात्मविदामधीशाः ।
श्रीवर्धमानादिककेम्पनाम्नि,
पुरे विहारं व्यदधुर्मुनीशाः ॥६४९॥
तत्रत्यसंघैश्च मुदामुदारं,
पात्रैः सुपात्रात्मगुरूत्तमानाम् । भव्योत्सवैर्भव्यजनैश्च सार्धं,
पुर्यां प्रवेशः परिकारितस्तैः ॥६५०॥
श्रीवर्धमानाख्यपुरे ततोऽनु,
श्रीपाटडीति( ? )शुभनामपुर्याम् ।
कृत्वा विहारं मुनिराजराजा
स्ततो बजाणाख्यपुरं प्रयाताः ॥६५१ ॥
ततो दसाडाख्यपुरात् क्रमेण,
विहृत्य पञ्चासरनामरम्यम् ।
ग्रामं च गत्वा विजयादिनीति
सूरिः स शङ्खेश्वरतीर्थमागात् ॥६५२॥