________________
२९६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलकावृत्तम् - सूरीश्वरो हि विधिविज्जिननेमितीर्थं,
शिष्य-प्रशिष्यकसमं गिरिमुज्जयन्तम् । आरुह्य नाकपथवच्च मुदाऽनमत्तान्,
श्रीनेमितीर्थपतिमुख्यजिनेश्वरान् सः ॥६२८॥ ते उज्जयन्तगिरिराजविराजमान
श्रीयादवान्वयविभूषणभूषणस्य । श्रीमत्समुद्रविजयाभिधभूपपुत्र
द्वाविंशति( ? )तमसुतीर्थकरस्य तस्य ॥६२९॥ आजन्मनैष्ठिकमहाव्रतधारकस्य,
सद्ब्रह्मचर्यचरणैकधुरन्धरस्य । दृष्ट्वा हि नेमिजिनपस्य सुभूतिमद्धा, आत्मोन्नतिं परमभावनयाऽन्वभूवन् ॥६३०॥
(युग्मम्) उपजातिः - पुरे तु तस्मिन् समसूरिधुर्या,
दुर्गेषु वण्र्ये वरजीर्णदुर्गे । द्वि-नन्द-नन्दैकमिते प्रसिद्धे (१९९२),
श्रीवैक्रमीये शुभवत्सरे ते ॥६३१॥ श्रीपौषमासस्य सुकृष्णपक्षे,
पष्ठ्यां तिथौ सौम्यदिने सुलग्ने । जिनेशभक्तं भविकं विरक्तं,
दीक्षामदुः श्रावकवर्यमेकम् ॥६३२॥ (युग्मम्)