SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ पादलिप्तपूरे बहूनां सूरीश्वराणां मिलनेन शासनप्रभावना । _ २९५ वसन्ततिलका - आसीदपूर्वमखिलेषु च साधुवर्गे ष्वेकत्वमुत्तममतो जिनपूजनादौ । सर्वत्र सर्वमुनिराजगमागमौ चाऽ भूतां मिथः परमसौहृदतः किलाऽस्मिन् ॥६२३॥ शार्दूलविक्रीडितम् - श्रीमन्नीतिमुनीश्वरे विलसति(?)सत्पादलिप्ते पुरे, विश्वे विश्वगुणान्विते सुचरिते जैनेकधु( ? )रन्धरे । तीर्थोद्धारकरे नृणां मलहरे चारित्रचर्यापरे, चाऽष्टाह्नि ? )क महोपधानतपसामासीत् प्रवृत्तिः परा ॥६२४॥ धर्मौनत्यमिहाऽभवद् बहुतरं प्रोत्साहिसंघे समे, नैकेऽलासिषुरुत्तमा नियमनं सावद्यकर्माऽजहुः । धर्मे दाढयमयासिषुश्च सकलाः सुश्रावका भावुकाः, सम्यक्त्वं प्रतिपेदिरे सुभविनः शुद्धोपदेशाद् गुरोः ॥६२५॥ उपजातिः - पूर्णे चतुर्मासनिवासकार्ये, | महोपधानादिकधर्मकृत्यैः । श्रीनीतिसूरीश्वरसूरिसूर्या, विहर्तुमैच्छन् नियमानुयुक्ताः ॥६२६॥ शार्दूलविक्रीडितम् - श्रीमन्नेमिजिनेश्वरं गुणिवरं प्रेम्णा प्रणन्तुं तदा, भव्यान् बोधयितुं मुदा जिनमतं विश्वेऽभिवि( ? )वृत्सया । आचार्यैकधुरन्धराः शमपराः कृत्वा विहारं शुभं, साध्वोधैः सह पादलिप्तपुरतः श्रीजीर्णदुर्गं गताः ॥६२७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy