________________
२९४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शार्दूलविक्रीडितम् - यस्यां श्रावकसंघभूषणसमश्रीजीवराजात्मजै
र्धन्यश्रीधनजीसुनामविदितैः श्रीसिद्धक्षेत्रे( भूमौ) कृते । यात्राकृद्धितकारिजीवनमुखश्रीमद्विलासाऽभिधे,
प्रासादे सततं पठन्ति सकला अद्यापि साध्व्यो मुदा ॥६१८॥ उपजातिः - साध्वीसमूहः खलु यत्र तिष्ठन्,
विज्ञानवृद्धिं प्रकरोति भूयः । अद्यापिपर्यन्तमतुल्यशीलै
रध्यापकैः श्रीजिनसंघभक्तैः ॥६१९॥ भू-नन्द-नन्दैकमिते च वर्षे (१९९१),
श्रीसंघहर्षांघकरे वरेण्ये । सत्पादलिप्ताख्यपुरे व्यराजन्,
श्रीनीतिसूरीश्वरसूरिसूर्याः ॥६२०॥ तदैव तस्मिन् (तस्यां) वरसिद्धक्षेत्र( भूमौ),
चाऽन्येऽपि सूरीश्वरवर्ण्यविद्याः । श्रीसागरानन्दमुनीश्वराद्याः,
समावसन् मोहनसूयश्च ॥६२१॥ श्रीसिद्धक्षेत्र( ?) तपसा तदानीं,
श्रीसूरिवाचामृतवर्षणाभिः । प्रभावनाभिर्जिनशासनस्य,
प्रागर्जयत् तज्जयघोषणाभिः ॥६२२॥