________________
पादलिप्तपूरे उपधानादि ।
वसूत्तर - स्नात्रसमर्चनं सः ।
सुस्वामिवात्सल्यमपि प्रचक्रे, चरित्रनेतुर्निरघोपदेशात् ॥६१३॥
द्रुतविलम्बितम्
मालिनी
-
अथ जनाऽनुमता जनताहिता, जिनपशासनवृद्धिविधित्सया । विजयनीतिमुनीशमहाशयाः,
सकलसंघहितैकमनीषया ॥६१४ ॥
अपि सदागमवेदिसुसाध्व्यरं,
भवति शासनवृद्धिविधायिनी । इति विचिन्त्य सुशास्त्रविशारदा,
रचयितुं वरपाठनपद्धतिम् ॥६१५ ॥ ( युग्मम् )
ऋषभपदपवित्रे पादलिप्ताभिधाने,
निखिलजिनपतीनां मन्दिरैर्मण्डिते वै,
भविकभवनभव्ये जैनसंघाश्रितेड्ये ।
सकलकरणयुक्ते जीवनाख्ये निवासे ॥६१६ ॥
धनिकधनजिदाख्यस्यात्मजं जीवराजं, सुकृतकृदुपदेशैर्बोधयित्वा मुनीशः ।
प्रथमपठनमुख्यां जैनसाध्वीजनानां,
२९३
कृतिषु जगति मुख्योऽस्थापयत् पाठशालाम् ॥६१७॥
( युग्मम् )