________________
२९२ उपजाति:
-
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
आवश्यकं सूत्रमशेषमेष, ह्यशुश्रवत्सार्थमिहत्यसंघम् । स्त्रियः पुमांसो बहुशो हि लोकाः, श्रोतुं समागुः प्रतिवासरेषु ॥ ६०८ ॥
मासोपवासं द्वि-गुणप्रमाण
दिनोपवासं च जनाः प्रचक्रुः (३२) । तदर्थ- माष्टाहिक उत्सवोऽभूत्,
सुशान्तिक- स्नात्रसमर्चनं च ॥ ६०९ ॥
श्रीमद्-यशस्वद्-धनजीतिनाम्नः,
पुत्राऽवतंसो धनि-जीवराजः । उद्यापनं सोत्सवमन्वतिष्ठत्,
तदर्थमष्टाह्निकमुत्सवं च ॥६१०॥
अष्टोत्तर - स्नात्र - विशेष - पूजां,
सुस्वामिवात्सल्यमपि प्रशस्तम् ।
प्रभावनां श्रीफलकाऽऽदिभिश्च,
श्रेष्ठी प्रचक्रे विपुलव्ययेन ॥६११॥
सीपोरवासी शुभधीश्च वाडी
लालो हठीसिंह - महेभ्यपुत्रः ।
अत्रोपधानं तप आररम्भत्,
तदीय- मालार्पणहेतवेऽसौ ॥६१२ ॥
अष्टाह्निकं चारुमहामहं च,