SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८८ उपजातिः आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आरब्धवानेष गुरुर्महीयान्, मेघाऽऽरवाऽऽडम्बराजित्स्वनेन । सुधामयीं धार्मिक -देशनां स, संसार- पाथोनिधि- रम्यनावम् ॥५८७॥ प्राचीनपुर्यामिह पूर्वकाले, सुश्रावकाणां निलयाः सहस्रम् । भव्यानि - चैत्यानि महान्ति भूरि, चाssसन्निदानीमपि सन्ति तत्र ॥ ५८८ ॥ आकाशचुम्बीनि च पञ्चत्रिंशद्, जिनेश्वराणां वरमन्दिराणि । तत्राऽमदावादनिवासि - चीमन् लालाऽभिधं सूरिवरः सुदीक्ष्य ॥५८९ ॥ चकार तं श्रीमुनिचम्पकेति - नाना प्रसिद्धं स बभूव शिष्यः । आचार्यवर्यस्य विदां वरस्य, प्रख्यात - सद्वादिविजित्वरस्य ॥५९० ॥ ( युग्मम् ) प्रत्येकपुर्यां भविकाँश्च जीवान्, धर्मोपदेशाऽमृतमेष सूरिः । अपीप्यदत्यन्तमनेकलोका नतीतरत्संसृति- दुस्तराऽब्धेः ॥५९१ ॥ सुस्वामिवात्सल्य - विशेष - पूजाप्रभावनाश्चाऽपि बभूवुरेषु ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy