________________
२८७
विहारक्रमेण खंभातपूरे गमनम् । उपजातिः -
विहृत्य तस्मादथ बारडोली
___ मुपेयिवानेष सशिष्यसूरिः । बेण्डादिनादैरमितैश्च पौरैः,
सह प्रविष्टो नगरं महिष्ठः ॥५८२॥ ऐद् माङ्गोलं नगरं ततोऽसौ,
गुरु-प्रहर्षेः पुरवासिलोकैः । बेण्डाऽऽदिभिः सम्मुखमेत्य सूरि
रानायि शिष्यैः सहितः पुरं सः ॥५८३॥ द्रुतविलम्बितम् - जघडियानगरीमयमाययौ,
नगर-वासि-विशेष-महामहैः । पुरमथ प्रविवेश गुरुर्महा
नदित पर्षदि धार्मिक-देशनाम् ॥५८४॥ इन्द्रवज्रा - गन्धार-जम्बूसर-मेत्य कावी
मित्वा स खम्भातपुरं जगन्वान् । गुर्वागमं पौरजना निशम्य,
सबैण्ड-भेरी-पटहाऽऽदिवाद्यैः ॥५८५॥ आख्यानकी - नानद्यमा( नै र्युगपत्सुगीतैः
सीमन्तिनीनामतिसुन्दरीणाम् । सहैत्य सूरीश्वर-सम्मुखं ते,
पुरप्रवेशं समचीकरन्त ॥५८६॥ (युग्मम् )