SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८५ वापीनगर्यां प्रतिष्ठा । धर्मपूरनृप प्रतिबोधः । ततश्च वापीनगरीमियाय, बेन्डाऽऽदिवाद्यैर्युगपन्नदद्भिः । सार्धं समागत्य समस्तपौरा, व्यधुश्च साम्मुख्यममुष्य सूरेः ॥५६९॥ सत्रा च तैः सूरिवरः प्रविश्य, पुरं ददौ मङ्गलदेशनां सः । चन्द्र-ग्रहा-ऽद्देन्दु-मिते च वर्षे (१९९१), तपस्य-शुक्ले चतुरास्यतिथ्याम् ॥५७०॥ चक्रे प्रतिष्ठां भगवज्जिनेश मूर्तेरसौ भव्य-नवीन-चैत्ये । आरभ्य माघाऽसित-याम्यतिथ्या, अष्टाऽऽह्निकं चारुमहामहञ्च ॥५७१॥ अष्टासु घस्रेष्वपि संघजेमनं, ह्यागुः सहस्त्रं त्विह पञ्च लोकाः । प्रभावना श्रीफलकादिभिश्च, नानोपचारैरभवच्च पूजा ॥५७२॥ गीतिः - धर्मपुरक्षितिपालो, हिझ-हाइ-नेस-देवविजयसिंहः । श्रीमास्तत्राऽऽयातः, श्रीमन्तमेनमाचार्यममिलच्च ॥५७३॥ "राजन् !" जीवोपरिष्टात्, कुरुष्व दयामवनीपते ! नित्यम् । प्राणो भवति प्रेयान्, समेषामत एव कमपि मा वधीः ॥५७४॥ स्वात्मनीव परकीयं, वेविद्यते सततं सुख-दुःखादि । सैव धीमानुभयत्र, चिराय सुखमनुभवति क्षितिजानिः" ॥५७५॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy