________________
२८५
वापीनगर्यां प्रतिष्ठा । धर्मपूरनृप प्रतिबोधः । ततश्च वापीनगरीमियाय,
बेन्डाऽऽदिवाद्यैर्युगपन्नदद्भिः । सार्धं समागत्य समस्तपौरा,
व्यधुश्च साम्मुख्यममुष्य सूरेः ॥५६९॥ सत्रा च तैः सूरिवरः प्रविश्य,
पुरं ददौ मङ्गलदेशनां सः । चन्द्र-ग्रहा-ऽद्देन्दु-मिते च वर्षे (१९९१),
तपस्य-शुक्ले चतुरास्यतिथ्याम् ॥५७०॥ चक्रे प्रतिष्ठां भगवज्जिनेश
मूर्तेरसौ भव्य-नवीन-चैत्ये । आरभ्य माघाऽसित-याम्यतिथ्या,
अष्टाऽऽह्निकं चारुमहामहञ्च ॥५७१॥ अष्टासु घस्रेष्वपि संघजेमनं,
ह्यागुः सहस्त्रं त्विह पञ्च लोकाः । प्रभावना श्रीफलकादिभिश्च,
नानोपचारैरभवच्च पूजा ॥५७२॥ गीतिः - धर्मपुरक्षितिपालो, हिझ-हाइ-नेस-देवविजयसिंहः । श्रीमास्तत्राऽऽयातः, श्रीमन्तमेनमाचार्यममिलच्च ॥५७३॥ "राजन् !" जीवोपरिष्टात्, कुरुष्व दयामवनीपते ! नित्यम् । प्राणो भवति प्रेयान्, समेषामत एव कमपि मा वधीः ॥५७४॥ स्वात्मनीव परकीयं, वेविद्यते सततं सुख-दुःखादि । सैव धीमानुभयत्र, चिराय सुखमनुभवति क्षितिजानिः" ॥५७५॥