________________
२८३
मुम्बापूर्यां शासनप्रभावना। इत्थं महाऽऽडम्बरतो बभूवान्,
मुम्बापुरेऽस्मिश्चरितस्य नेतुः । बिन्दु-ग्रहाऽ.कमिते च वर्षे (१९९०),
वर्षानिवासः प्रभुनीतिसूरेः ॥५५८॥ ऐन्याश्च पुर्या अपि जित्वरीयं,
__ मुम्बापुरी सम्प्रति वर्वृतीति । व्यापारलीला महती च नाना,
बोभोति नित्यं वणिजाममुष्याम् ॥५५९॥ गव्यूति-षटकद्वयसी धराया,
देव्याः सुभालस्थित-बिन्दुकल्पा । उदन्वतो रोधसि वर्तमाना
ऽमरावती चोपहसत्यजत्रम् ॥५६०॥ सहस्त्रशश्चाऽत्र वसन्ति जैनाः,
कोटिध्वजाः सद्गुरु-देवभक्ताः । विभान्ति चैत्यानि दशाऽत्र पुर्यां,
___ महान्ति तारापथलेलिहानि ॥५६१॥ तपःसिते तत्र गणेशतिथ्यां,
तं राजपूर्वे नगरे वसन्तम् । मुमुक्षुचन्दूयुतलालसंज्ञं,
प्रावाजयत्सूरिवरो गरीयान् ॥५६२॥ मालिनी - चरणविजयनाम्ना सर्वलोके प्रसिद्धं,
धृत-गणिपद-सम्पत्साधुशिष्यं प्रचक्रे ।