________________
२८२
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
कर्तुं चतुर्मासमतीव विद्वान्,
स्वयं च मुम्बानगरे रराज ॥५५२॥
श्रीसङ्घमत्रत्यमशेषमेष,
सद्देशनां सूरिवरो ददानः । जीर्णोद्धतौ रैवतभूधरोप
रिष्टाद्यथाशक्ति वसु प्रदातुम् ॥५५३॥
आदिष्टवान् संघजनोऽपि तस्मिन्, गोडीजिपार्श्व-प्रभुचैत्यसत्कम् ।
ददौ च मुद्रामयुतप्रमाणा
ममुष्य सूरेरुपदेशनुन्नः ॥ ५५४॥ ( युग्मम् )
पर्युषणादौ निरगादिहोच्चै
रसंख्यलोकेषु समं व्रजत्सु ।
वाद्येषु बेण्डादिषु संनदत्सु,
रथेन सत्रा वर - घोटकश्च ॥ ५५५ ॥
इहस्थिताऽशेष-मुनीश-वर्गाः,
साध्व्यश्च सर्वा मिमिलुर्हि तत्र ।
परस्परं भूरि सहाऽनुमोद,
आसीद्विशेषः खलु साधुवर्गे ॥५५६ ॥
भूताऽक्षि- पृथ्वीमित-वत्सरीय
ग्रन्थ्युत्सवे तत्र बभूव कोटे ।
आष्टाहिके शान्त्यभिषेकपूजा,
शिष्यैः सहाऽसौ गतवांश्च सूरिः ॥ ५५७ ॥