________________
२७८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - तपःशुक्लपक्षे मुनेः कस्य तिथ्यां,
स भद्रङ्कराऽऽख्यस्य दीक्षां च गुर्वीम् । प्रदायैष चक्रे मनोहत्सुसाधोः,
सुशिष्यं विनीतं प्रभुः सूरिमुख्यः ॥५२९॥ उपजातिः - इहाऽमदावादगरिष्ठपुर्या
मशेष-शुभ्राम्बर-सन्मुनीनाम् । बभूव सम्मेलनमुत्तमं तद्,
आमन्त्रिताः संघजनेन तत्र ॥५३०॥ दूरादिहाऽऽगुस्त्रिशतं मुनीशा
स्तेषां समेषां समुपागतानाम् । तत्रत्यसंघः कृतवाँश्च सम्यक्,
सुस्वागतं मानपुरस्सरं हि ५३१॥ अयञ्च तस्मिन्नधिवेशने हि,
चरित्रनेता मतिमद्गरीयान् । आसीत्प्रधानः प्रविचारणाऽऽदौ,
युगप्रधानः प्रभुनीतिसूरिः ॥५३२॥ दिनत्रयं तत्र बभूव तद्धि,
डेलाऽभिधोपाश्रय एव मुख्ये । ततश्च वण्डाऽभिध-रम्यहर्ये,
श्रीमत्पुरश्रेष्ठिन एकमासम् ॥५३३॥