________________
अहमदाबादे उपधान - मालापरिधापनादि ।
उपजाति:
-
इहत्य-रूपासुरचन्दपोलवासी छगन्लालमहेभ्यसूनुः । वाडीयुतो लाल उदारभावा
दिहोपधानं तप आररम्भत् ॥५२४॥
व्यैदत्र लोकप्रमितं सहस्त्रं,
मुद्राः सुधर्मा परमोत्सहिष्णुः । अभूतपूर्वं परमोत्सवं स,
चकार मालापरिधापनीयम् ॥५२५ ॥
मार्गे च शुक्ले कतिथौ प्रकाशमुनेश्च दीक्षां बृहतीं प्रदाय । चकार विद्याविजयस्य साधो
रन्तेसदं तं मतिमन्तमेषः ॥५२६ ॥
महाद्युपाध्यायपदोपयुक्त
दयाऽभिधानो मतिमान् सुविद्वान् । पन्यासभाग् दानविजिद्विपश्चित्,
पन्यासयुक् श्रीतिलको मुनिश्च ॥५२७॥
पन्यास - मुक्तिर्विजयोऽतिधीरः,
पन्यास- कल्याणमुनिः प्रविद्वान् ।
गणी च सम्पद्विजयो मुनिश्चे
त्याद्याः सुशिष्या इह पार्श्व आसन् ॥ ५२८ ॥
२७७
( युग्मम् )