________________
२७६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - तद्देशनां पौरजना निपीय,
सुधोपमां धर्ममयीं सुरम्याम् । श्रवःसुखां दुष्कृतराशिही,
सुदुर्वचां कामपि तृप्तिमीयुः ॥५१९॥ ततोऽमदावादमवाप सूरिः,
संघाऽऽग्रहाद्वार्षिकसन्निवासम् । चक्राण आचार्यगणाऽग्रगण्यो,
निध्यष्ट-नन्द-क्षितिविक्रमाऽब्दे (१९८९) ॥५२०॥
गीतिः -
उत्तराध्ययनसूत्रं, शान्तिसूरिकृत-टीकया सहितं च । वाचयाञ्चकार तत्र, श्रीमान् विजयनीतिसूरिराचार्यः ॥५२१॥ वसन्ततिलाक - आबाल-वृद्धनगरीजनता समुत्का,
श्रोतुं समागतवती प्रतिवासरं तत् । स्वीचक्रिरे व्रतमनेकजनाश्च प्रत्या
ख्यानाऽऽदिकं जगृहिरे बहवश्च भव्याः ॥५२२॥ सूरीश्वरस्य गुरुबन्धुरमुष्य विद्वान्,
गम्भीरनाममुनिवर्य उदारबुद्धिः । देहं विहाय गतवांस्त्रिदिवं तदर्थ
मष्टाह्निकं परममुत्सवमत्र चक्रे ॥५२३॥