SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २७९ राजनगरे सम्मेलनम् । पं. धर्मविजयस्य कालधर्मः । व्यमर्शि सर्वैर्बहुधा सभायां, सुधीप्रकाण्डैर्मुनिपुङ्गवैस्तैः । प्रान्ते नवाऽऽचार्यवराः सुधीराः, कृत्वा सभां तत्र विविच्य सम्यक् ॥५३४॥ मुनीश्वरैस्तैर्निरधारि यद्धि, प्राकाशि तत्सर्वमशेषसंघे । सम्मेलनेऽस्मिन्न हि कोऽपि सूरिः, प्रापच्च नेतृत्वमशेषकृत्ये ॥५३४॥ गीतिः - क्रियोद्धारक-पन्यास-सत्यविजय-पट्ट-परम्पराऽनुगः । अयमेव चरित-नेताऽऽचार्य-नीतिसूरिरासीत्तदर्हः ॥५३६॥ तदपि सकलाऽनुमत्या, नवाऽऽचार्यसमितिरेव सर्वमकृत । सभाऽवसानदिवसे हि, चरित्रपतेर्गुरुबन्धु-पन्यासः ॥५३७॥ उपजातिः - श्रीधर्मसंज्ञः कृतवांश्च कालं, स्मरन्नजस्त्रं, परमेष्ठिमन्त्रम् । ध्यायश्च चित्ते स हि वितराग पादारविन्दं गतसर्वमोहः ॥५३८॥ (युग्मम्) उपगीतिः - देववन्दने श्रीमान्, आचार्य-विजय-नेमिसूरिः । आनन्दसागरसूरि-विजय-सिद्धिसूरीश्वराऽऽद्याः ॥५३९॥ अन्येऽपि त्रिशत-साधु-वर्याः समागताः सर्वके । भागमलप्सत तस्मिन्, प्रथित-महापुर-राजनगरे ॥५४०॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy