________________
२७४
वैतालीयम् -
वसन्ततिलका
मालिनी
तखतगढमुपेयिवानितः,
सकल-पौर-सञ्जनाऽनुगः,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
उपजाति:
सम-निनादित-सुतूर्यनिस्वनैः ।
प्रविवेश पुरं सूरिराडसौ ॥५०९ ॥
पालीपुराऽवधि - महामरुरुच्यते हि,
तत्राऽखिलेषु नगरेषु च लुम्पकानाम् । बाहुल्यमस्ति यदमीषु मुनीश्वराणां,
बोभोति जातु विहृतिर्न हि चोपदेशः, ॥५१०॥
श्रीमञ्जिनाऽऽलय - महारमणीय-धर्म
शालादिकं प्रतिपुरं कृतमस्ति तत्र । अस्त्येक - केवल महामुनिसंविहाराऽ
त्यावश्यकत्वमधुना प्रतिबोधनाय ॥५११॥
तखतगढ इहाऽऽसीत्सर्वलोकेष्वनेक
प्रबलतरविरोधो येन सर्वत्र हानि: । तमपि मुनिवरोऽयं नाशयामास सूरिः,
प्रतिजनमतिबोध्य स्वीयसारोपदेशैः ॥५१२ ॥
satar बाँभरवाडतीर्थं,
विधाय यात्रां गुरु- भक्तिभावैः ।
ततोऽर्बुदाऽद्रिं परिपेदिवान् स,
सच्छिष्यवर्गैः कृतवांश्च यात्राम् ॥५१३॥