________________
२७
फलोधिमध्ये हर्षविजयस्य सूरिपदप्रदानम् । इन्द्रवज्रा - सुस्वामिवात्सल्यमपि प्रचक्रे,
श्रेष्ठी किसनलाल उदारभावः । इत्थं महीयान् सुमहो बभूवान्,
सूर्यासनाऽऽरोहणहेतवेऽस्य ॥४१२॥ उपजातिः - मासोपवासाऽऽदिकसत्तपस्या,
चाऽऽष्टाहिकाऽऽद्युत्सव उज्ज्वलश्च । स्वमिवात्सल्यमभूदनेकं,
__ प्रभावना-पूजनमत्र नित्यम् ॥४९३॥ आडम्बरेणाऽत्र महीयसा च,
समस्त-गच्छीयजनैरमानैः । बभ्राम पुर्यां वरघोटको हि,
बेण्डाऽऽदिवाद्यैः सह गीतनादैः ॥४९४॥ गीतिः - स्थानकवासिन एवं, खरतर-लौकास्तपोगच्छीयाश्च । सर्वे वीयुर्द्रव्यं, समुत्साहिनः परममहामहेऽस्मिन् ॥४९५॥ चरितपतेरुपदेशा-दिह किसनलाल-सम्पतलालेभ्यः । धर्मशालां विशालां, मन्दिरमपि रमणीयमचीकरच्च ॥४९६॥ उपगीतिः - अचीकरदिहो(प)धान-मयमनेकपुम्भिः स्त्रीभिश्च । अन्ते महता महेन, मालां पर्यधापयद्वतिनाम् ॥४९७॥