________________
२७०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततश्चलित्वा सह सर्वसंधैः,
श्रीमत्फलोधीपुरमार सूरिः । आसीच्चिरत्नस्त्विह संघमध्ये,
मिथो विरोधो बहुहानिकारी ॥४८४॥ तमेष सर्वान् प्रतिबोध्य लोकान्,
चिरेण यत्नाद्बहुधोपदेशैः । निरस्य संघेषु परस्परं हि,
__ मैत्री परां सूरिरजीजनच्च ॥४८५॥ ततश्च सर्वे मुदिता हि पौराः,
सुस्वामिवात्सल्यमपि प्रचक्रुः । गुरोश्च माहात्म्यमतीव सर्वे,
जगुश्च चक्रुर्बहुधर्मकृत्यम् ॥४८६॥ गीतिः - पायचन्द-खरतर-तपगच्छ-कमलागच्छीय-मुख्येभ्याः । संस्कृताः सूरिवर्य, प्रावृषि निवस्तुं प्रार्थयामासुः ॥४८७॥ लाभाऽलाभौ विचिन्त्य, तेषामभ्यर्थनमुररीचक्रे । तत्र श्रीविजय-नीति-सूरिराचार्य-चक्र-चूडामणिः ॥४८८॥ वसु-नग-नवशशिवर्षे (१९८८),फलोधिपुरेजनताऽऽग्रहाऽतिशयात्। कृतवाश्चातुर्मास्यं, चरितपति-विजय-नीतिसूरिराजः ॥४८९॥ शुक्र-शुक्ल-गुहतिथ्या-मिह हि पन्न्यास-श्रीहर्षविजयम् । प्रदायाऽऽचार्यपदवीं, सौवपट्टे समतिष्ठिपत्सूरिः ॥४९०॥ तन्महोत्सवं श्रेष्ठी, कृतवान् किसनलालाऽभिधो रम्यम् । सम्पतलालगुलेच्छाऽऽ-ष्टाहिकमह-सुशान्तिस्नात्राऽऽदिकम् ॥४९१॥