________________
२६९
ससङ्घन सूरिणा जेसलमेर तीर्थस्य यात्रा कृता ।
__ __ २६९ सूरीश्वरः सौम्यदिने शुभंयु
__लग्ने सुशिष्यैः कतिभिश्च जुष्टः ॥४७८॥ अयाच्च सानन्दमशेषसंघः,
क्रमेण तज्जेसलमेर-तीर्थम् । विधाय यात्रां विधिवद्बभूवान्,
अनेक-जन्माऽर्जित-पापमुक्तः ॥४७९॥ तीर्थेऽह्यमुष्मिन् प्रतिमा जिनानां,
सहस्रमद्याऽपि च सप्त सन्ति । रुद्रप्रमायां च शताब्दिकायां,
संस्थापितस्त्वेष इति प्रतीतिः ॥४८०॥ प्राच्यस्तु तीर्थः खलु लोध्रवाऽऽख्य
स्त्वद्यापि तत्रैकविशालचैत्यम् । एका च रम्याऽस्ति हि धर्मशाला,
वस्तिर्जनानां न हि काऽपि तत्र ॥४८१॥ तत्रत्य-यात्रां विधिवद्विधाय,
सूरीश्वरः संघजनैश्च सत्रा । समागमञ्जेसलमेरपुर्या
मैक्षिष्ट तत्रत्यसुपुस्तकानि ॥४८२॥ अतिप्राच्य-नानाविध-सञ्चितानि,
सत्तालपत्रोपरि लेखितानि । तत्रत्यदुर्गोपरि निर्मितानि,
नवाऽपि चैत्यानि ददर्श चैषः ॥४८३॥