________________
२६८
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
वैतालीयम् -
प्रस्थितस्ततः पुरादितो, देसुरीप्रमुख - पञ्चतीर्थिकाम् । विधाय बहु-भक्तितो मुदा, प्रससाद भृशं विश्वपावनः ॥४७३॥
उपजाति:
पालीपुरीमेष ततः प्रपेदे, सुसत्कृतः पौरजनैश्च सर्वैः ।
ओजस्विनीं धार्मिकदेशनां स,
पञ्चचामरम्
-
यातस्ततः कापरडाऽऽख्यपुर्यां, बोर्डिङ्गमेकं समतिष्ठिपत्सः । समीयिवान् योधपुरं ततः श्रीसूरीश्वरः शिष्यगणैः सहैषः ॥ ४७५ ॥
प्रदाय लोकान् समरञ्जयच्च ॥४७४॥
-
नदन्मृदङ्गकाहलाऽऽदिक-प्रबेण्डवादनै
र्मृगीदृशां श्रवः सुखैः सुराग - गीत - निस्वनैः । जयध्वनिं वदज्जनैः पुरस्कृतः सहस्रशः,
प्रवेशितः पुरि प्रभुः पुरीजनैश्च सद्गुरुः ॥४७६ ॥
गीतिः
जीवराज अगरचन्द, आसीज्जेसलमेरयात्राचिकी: । सह सङ्गेन फलोध्यां, तदाग्रहात्तत्राऽऽगतवान् सूरिः ॥४७७॥
उपजाति:
ततो सौ युग्मसहस्रलोकैः,
साकं ययौ जेसलमेरयात्राम् ।