________________
२६७
मुनिवराणां पदवीदानं कृत्वा राणकपूरतीर्थयात्रा । शिखरिणी - चतुर्मास्या अन्ते तत विहृत एष प्रभुवरः, सिरोही-सत्पुर्यामुपगत इहत्या च जनता । सुबेण्डाऽऽद्यारावैः प्रचुर-ललना-गीत-निनदैः, पुराऽन्तः संनिन्ये सह सकल-शिष्यैर्गुरुवरम् ॥४६८॥ उपजातिः - इतश्च नाडोलपुरं समार,
सत्कारपूर्वं नगरं प्रविश्य । सुधायितं तत्र महोपदेशं,
प्रदत्तवान् सूरिवरश्चिराय ॥४६९॥ इतश्चलित्वा स हि नारराई
पुरं समागादिह सर्वपौराः । वाद्यादिभिस्तं पुरमानयन्त,
सूरिः प्रचक्रे रुचिरोपदेशम् ॥४७०॥ भुजङ्गप्रयातम् - मुछारा-महावीर-मागात्ततोऽसौ,
विधायाऽत्र यात्रां प्रभुं सन्नुनाव । जनेभ्यः प्रकामं भवाऽब्धि-प्रतारं,
सुधर्मोपदेशं ददौ सूरिराजः ॥४७१॥ औपच्छन्दसिकम् - राणकपुरमाययौ ततोऽसौ,
पुरजन-विहित-समुत्सवैर्विशेषैः । प्रविवेश पुरं सहाऽऽत्मशिष्यैः,
प्रकृतवानिह सुयात्रिकां प्रभक्त्या ॥४७२॥