________________
२६६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् महेन्द्र-सद्धीमुनि-मङ्गलाख्य
__ मनोहर-श्रीमुनि-सम्पदां च । ऊर्जेऽसिते नागतिथौ चतुर्णा,
गणीत्युपाधि विततार सूरिः ॥४६३॥ पञ्चचामरम् - पद-प्रदान उज्ज्वलं महामहं दिनाऽष्टकं,
समस्त-संघ ऐहिकश्चकार भाववृद्धितः । प्रभावना सितोपलैरपीह नालिकेरकै
जिनाऽधिनाथ-पूजनं बभूव नैकधा महत् ॥४६४॥ उपजाति: - सुस्वामि-वात्सल्यमपि प्रशस्यं,
जावालसंघः परमोत्सहिष्णुः ।। व्यधत्त तस्मिन् पदवीप्रदाने, .
स्वकीय-भूरि-द्रविण-व्ययेन ॥४६५॥
इन्द्रवज्रा -
लोकाश्च तस्मिन् शतशः समागुः,
सौराष्ट्रिका गौर्जर-मारवाश्च । वाज्यष्ट-निध्येक-मिते च वर्षे, (१९८७)
प्रावृट्चतुर्मासिककृत्यमित्थम् ॥४६६॥ वसन्ततिलका - पन्न्यास-मुक्तिविजयो मतिमान्महेन्दुः,
श्रीमङ्गलः प्रखर-बुद्धि-मनोहरश्च । सम्पन्मुनिः सुकृति-पुण्यमुनिः शुभाऽऽख्यः,
प्राऽऽसन्नमी उपगुरु प्रवराः सुशिष्याः ॥४६७॥