________________
मुनिवराणां गणि-पन्यासादि पदवी दानं ।
तदर्थमिहत्यसंघै-राष्ट्राहिकमहामहोऽकारि मुदा ।
शान्ति - स्नात्र - समर्चा- नवकारसीप्रमुख कतिशुभकृत्यम् ॥ ४३५॥
उपजाति:
मालिनी
उपजाति:
पदप्रदानीय- महामहेऽस्मिन्,
वैदेशिक - श्राद्धगणा: स्त्रियश्च ।
प्रायः सहस्त्रं ह्युपतस्थिरेऽति
प्रमोदभाजः सकला बभूवुः ॥४३६॥
श्रीसुन्दराऽऽख्यस्य मुनेश्च गुर्वीं, दीक्षामदत्ताऽयमतुच्छतेजाः ।
पन्यास - मुक्तेर्विजयस्य शिष्यं,
-
चकार विद्याचण - सूरिराजः ॥४३७॥
इहाऽमदावाद - पुरस्थमेकं,
मुमुक्षुजीवं परिदीक्ष्य सूरिः । तस्याऽभिधां मेरुरिति प्रकाश्य,
शिष्यं व्यधात्साधु-मनोहरस्य ॥४३८॥
रस-वसु-नव-भूमीसम्मिते हायनेऽसौ (१९८६ ) प्रथित- कपडवञ्जे सत्पुरेऽचर्करीत्सः । जलद - दिननिवासं भूरिशिष्यैः सुजुष्टः,
?
२६१
प्रवर - विजयनीतिः सूरिशक्रः किलेत्थम् ॥४३९॥
अथाऽमदावाद - लुहारपोल --- निवासिनामग्र्यमहेभ्यकानाम् ।