________________
२६२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अत्याग्रहात्तत्र समाजगाम,
चरित्रनेता विहरन्नितश्च ॥४४०॥ समध्यवात्सीदिह मासयुग्मं,
प्रावाजयद्विक्रमपत्तनस्थम् । पुमांसमेकं विनयेतिसंज्ञां,
धृत्वा स्वशिष्यं कृतवांस्तमेषः ॥४४१॥ इतो यियासुर्मरुदेशमेष,
पुरं मशाणाऽभिधमाजगाम । तत्राऽमदावादपुरीयमेकं
सन्दीक्ष्य तन्नाम सुभेति चक्रे ॥४४२॥ विहृत्य तस्मादयमैच्च तार
ङ्गाजि सुतीर्थं सह शिष्यवर्गः। विधाय यात्रां गतवान् कुमारि
याजीति नाम्ना प्रथितं च तीर्थम् ॥४४३॥ ततोऽर्बुदाऽनेरुपरिस्थ-देल
वाडाऽभिधानं रमणीयतीर्थम् । समेत्य तीर्थङ्करमादिनाथं,
ददर्श भक्त्या परया च सूरिः ॥४४४॥ ततः सिरोही-नगरीमियाय,
पौरेश्च बेण्डाऽऽदिकवाद्यनादैः । सीमन्तिनी-यूथ-सुचारुगीतैः
प्रावेशि रम्ये नगरे स एषः ॥४४५॥