________________
२५९
पं. गुलाबविजयस्य कालधर्मः । आगन्तुमाकारित इभ्यवर्ग
राचार्यवर्यः पुनरेष तत्र । श्रीराजपूर्वं नगरं समागान्
महोत्सवौ तौ समभूषयच्च ॥४२३॥ (युग्मम्) द्रुतविलंबितम् - कपडवञ्ज-पुरीय-महाजना,
धनदिनेषु निवासयितुं ह्यमुम् । उपगता इह सुरिवरस्य ते,
विदधिरे सकला विपुलाऽऽग्रहम् ॥४२४॥ अधिकलाभमुदीक्ष्य तदाऽसकौ,
तमुररीकृतवान् करुणानिधिः । विहृतवानत एवं लघु प्रभुः,
परम-मातर-तीर्थमुपाऽऽगमत् ॥४२५॥ विधिवदत्र विधाय सुयात्रिकां,
पुर-वरं नडियादमुपाययौ । नगरमेष विवेश महामहै
रुपदिदेश विशेषमितोऽपि सः ॥४२६॥ प्रविहरन्महुधापुरमीयिवान्,
सकल-पौरजनैरतिसत्कृतः । सदसि रम्य-सुधोपमदेशना
मदित सूरिवरः परमाहतीम् ॥४२७॥ कपडवञ्जमसौ तत आगमत्,
नददनेक-महारव-वादनैः ।