________________
२५८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तमेत्य यात्रां विधिवद्विधाय,
प्रबोधयन् भव्यजनान् समासीत् ॥४१७॥ तत्राऽऽगतो बावल-पत्तनस्थः,
स्वधर्मपल्या सह धर्मसिंहः । संसार-घोराऽर्णव-सन्तितीर्घ
___ीक्षां ययाचे प्रभु-नीतिसूरिम् ॥४१८॥ तद्भाव-दाढय समुदीक्ष्य सूरि
स्तत्रस्थ-संघस्य समक्षमेनम् । प्रदाय दीक्षां मुनि-भक्तिनाम्,
धृत्वाऽऽत्म-शिष्यं कृतवान् कृपालुः ॥४१९॥ तदीयपत्नीमपि दीक्षयित्वा,
श्रीमङ्गलश्रीरिति नाम धृत्वा । लाभश्रियस्तामकरोच्च शिष्यां,
साध्व्या उदाराऽऽश( य) एष सूरिः ॥४२०॥ इतोऽमदावाद-लुहार-पोल
निवासि-सर्वेभ्यजनाश्च तत्र । भविष्यदुद्यापन-सूत्सवे हि,
समेतुमाचार्यमसूचयन्त ॥४२१॥ पन्यासकोपाधिक-सत्प्रतिष्ठ
श्रीमान् गुलाबः कृतवांश्च कालम् । तदर्थमप्यत्र सुवीरकोपा
श्रये भविष्यत्परमोत्सवे च ॥४२२॥