SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २५७ राजनगरे चतुर्मास-योगोद्वहन-उद्यापनादि प्रसंगाः । शिखरिणी - उपाध्यायः श्रीमानधिक-गुणशाली मुनिदया, स पन्यासोपाधिः परमसुकृती दानविजयः । स पन्यासो हर्षो मुनिरधिगुणः शास्त्रकुशलः, . स पन्न्यासः शान्तिः सकलजनता-शान्तिजनकः ॥४१३॥ मुनिर्मानोपाह्वो मुनिरुदयसंज्ञो मुनि-मनो हरोपाख्यः सम्पद्विजय उरुधीः केशर-मुनिः । मुनिहंसः श्रीमान् बहुपटु-महेन्द्रो मुनिवरस्त्विमे शिष्या आसन्नुपगुरु सुविद्या विनयिनः ॥४१४॥ (युग्मम्) उपजातिः - एषोऽत्र मानोदयनाममुन्यो गणीत्युपाधि ददिवान् गरीयान् । डेलाऽभिधोपाश्रयमेत्य सूरि _ वितत्य घस्राऽष्टकमुत्सवाऽऽदि ॥४१५॥ शार्दूलविक्रीडितम् - इत्थं भूत-वसु-ग्रह-क्षितिमिते सम्वत्सरे वैक्रमे (१९८५), जुष्टः शिष्यगणैः सुराजनगरे लूवार-पोलस्थिते । रम्योपाश्रय उत्सवैः कतिविधैः पौरान् सदाऽऽनन्दय श्चातुर्मास्यमलञ्चकार विजयश्रीनीतिसूरीश्वरः ॥४१६॥ उपजातिः - इतोऽसको केशरियाजियात्रां, चिकीर्विजहे सह शिष्यवगैः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy